Shiva Gita

Brahma-jnana, Vedantic scripture, Essence of Upanishads, Padma Purana, Uttara Khanda,

Shiva Gita Ch 09: Deha Svarupa Nirnayam

श्रीभगवानुवाच .. देहस्वरूपं वक्ष्यामि श्रुणुष्वावहितो नृप . मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते . मय्येवेदमधिष्ठाने लीयते शुक्तिरौप्यवत [1] अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः . असंगो निरहंकारः शुद्धं ब्रह्म सनातनम [2] अनाद्यविद्यायुक्तः सन जगत्कारणतां व्रजे [3] अनिर्वाच्या महाविद्या त्रिगुणा परिणामिनी . रजः…
Read more

Shiva Gita Ch 10: Jeeva Swaroopa Niroopanam

श्रीराम उवाच .. भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते . जायते वा कुतो जीवः स्वरूपं चास्य किं वद [1] देहान्ते कुत्र वा याति गत्वा वा कुत्र तिष्ठति . कथमायाति वा देहं पुनर्नायाति वा वद [2] श्रीभगवानुवाच .. साधु पृष्टं महाभाग गुह्याद्गुह्यतरं हि यत…
Read more

Shiva Gita Ch 11: Jiva Gatyaadi Niroopanam

श्रीभगवानुवाच .. देहान्तरगतिं तस्य परलोकगतिं तथा . वक्ष्यामि नृपशार्दूल मत्तः शृणु समाहितः [1] भुक्तं पीतं यदस्त्यत्र तद्रसादामबन्धनम . स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम [2] व्याधिना जरया वापि पीड्यते जाठरोऽनलः . श्लेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम [3] भुक्तपीतरसाभावादाशु शुष्यन्ति धातवः…
Read more

Shiva Gita Ch 12: Upasana Jnanaphalam

श्रीराम उवाच … भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर . उपासनविधिं ब्रूहि देशं कालं च तस्य तु [1] अङ्गानि नियमांश्चैव मयि तेऽनुग्रहो यदि ईश्वर उवाच … शृणु राम प्रवक्ष्यामि देशं कालमुपासने [2] सर्वाकारोऽहमेवैकः सच्चिदानन्दविग्रहः . मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम [3] ये त्वन्यदेवताभक्ता यजन्ते…
Read more

Shiva Gita Ch 13: Moksha Yoga

सूत उवाच … एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः . पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम [1] श्रीराम उवाच … भगवन्करुणाविष्टहृदय त्वं प्रसीद मे . स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर [2] श्रीभगवानुवाच … सालोक्यमपि सारूप्यं सार्ष्ट्यं सायुज्यमेव च . कैवल्यं चेति तां विद्धि मुक्तिं…
Read more

Shiva Gita Ch 14: Panchakoshopasana

श्रीराम उवाच … भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम . निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम [1] सर्वधर्मविहीनं च मनोवाचामगोचरम . सर्वव्यापितयात्मानमीक्षते सर्वतः स्थितम [2] आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम . अमूर्तं सर्वभूतात्माकारं कारणकारणम [3] यत्तददृश्यमग्राह्यं तद्ग्राह्यं वा कथं भवेत . अत्रोपायमजानानस्तेन खिन्नोऽस्मि शंकर [4] श्रीभगवानुवाच…
Read more

Shiva Gita Ch 15: Bhakti Yoga

श्रीराम उवाच … भक्तिस्ते कीदृशी देव जायते वा कथंचन . यया निर्वाणरूपं तु लभते मोक्षमुत्तमम . तद ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि [1] श्रीभगवानुवाच … यो वेदाध्ययनं यज्ञअं दानानि विविधानि च . मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः [2]…
Read more

Shiva Gita Ch 16: Mokshadhikari Nirupanam

श्रीराम उवाच … भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाहृतः . तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान [1] श्रीभगवानुवाच … ब्रह्मक्षत्रविशः शूद्राः स्त्रियश्चात्राधिकारिणः . ब्रह्मचारी गृहस्थो वा.आनुपनीतोऽथवा द्विजः [2] वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती . बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने [3] स एवात्राधिकारी स्यान्नान्यचित्तः…
Read more

Shiva Gita Ch 17: Puja Vidhanam

श्रीराम उवाच … भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि . तद्ब्रूहि मम जिज्ञआसा वर्तते महती विभो [1] श्रीभगवानुवाच … मृदा वा गोमयेनापि भस्मना चन्दनेन वा . सिकताभिर्दारुणा वा पाषाणेनापि निर्मिता [2] लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः . ताम्ररौप्यसुवर्णैर्वा रत्नैर्नानाविधैरपि [3] अथवा…
Read more

Shiva Gita Ch 18: Japa Lakshanam

श्रीभगवानुवाच … अक्षमालाविधिं वक्ष्ये शृणुष्वावहितो नृप [1] साम्राज्यं स्फाटिके स्यात्तु पुत्रजीवे परां श्रियम . आत्मज्ञआनं कुशग्रन्थौ रुद्राक्षः सर्वकामदः [2] प्रवालैश्च कृता माला सर्वलोकवशप्रदा . मोक्षप्रदा च माला स्यादामलक्याः फलैः कृता [3] मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी . माणिक्यरचिता माला त्रैलोकस्य वशंकरी…
Read more

%d bloggers like this: